भारतीयसंस्कृतेः पुनरुत्थानस्य आवश्यकता

पुरा भारतवर्ष: संस्कृतिसाहित्यविज्ञानशिक्षेत्यादिषु विषयेषु गौरवोज्ज्वल आसीत्। अद्यत्वेपि भारतदेशस्य समुन्नतिः परिदृश्यते परन्तु गौरवमण्डिता भारतीयसंस्कृति: प्रायेण विस्मृता।अधुना धौतवस्त्रपरिधानस्य शाटिकावस्त्रपरिधानस्य च अभावो भारतीयेषु दृश्यते, शास्त्रीयसंगीतनृत्यकलादिपरम्परा यथायोग्यं सम्मानं न प्राप्नोति तथा भारतस्य स्वकीयव्यञ्जनेषु यूनाम् अभिरुचि: सम्यग्तया न दृश्यते।वयं पाश्चात्यसंस्कृतिप्रभावात् स्वकीयैतिह्यं परम्परां च प्रति उदासीना:। एतादृशी जडवत् उदासीनतैव अस्माकं दुर्बलताया: कारणम्। यो देश: स्वसंस्कृतिपरम्परेत्यादिषु विषयेषु दृष्टिपातं न करोति तद्देशस्य मौलिकस्वातन्त्र्यं क्षुण्णं भवति। तमोगुणाच्छन्ना भारतीया यदा पाश्चात्यज्ञानविज्ञानेन सह भारतीयसंस्कृतिनीतिशास्त्रादीनां विषयाणां सम्मेलनं कर्तुं शक्नुवन्ति तदैव प्रकृताग्रगति: सम्भवेत्। अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहादीनां गुणानां विकाशो यथा भारतीयेषु स्यात् तदर्थं वयं प्रयत्नं कुर्म:। अस्माकं देशे युवसम्प्रदायस्य कर्मचाञ्चल्यं तथा प्राणप्राचुर्यं सुष्ठुतया वर्तेते। केवलं भारतीयसंस्कृत्याः बोधनम् अर्थात् जागरणं यदा भविष्यति तदैव राष्ट्रस्य सामग्रिकी अग्रगतिर्भवेत्। एकस्य मनुष्यस्य यदा सामाजिकाध्यात्मिकसांस्कृतिकदृष्ट्या बोधनं भविष्यति तदा सदात्मकस्तादृश: तरङ्ग: समाजे प्रसारं लप्स्यते। तदर्थम् अस्माभिः उद्योगोऽवश्यमेव करणीय इति शम्।
← Back to This Year’s Articles